|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.3. अध्यायः 003
Mahabharata - Strii Parva - Chapter Topics
विदुरेण धृतराष्ट्रकापनोदनाय शास्त्रार्थकथनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
वृतराष्ट्र उवाच। 11-3-0x(5316)(64862)
सुमाषितं महाप्राज्ञ शोकोऽयं विगतो मम।
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः॥ 11-3-1(64863)
अनिष्टानां च संसर्गादिष्टानां च निवर्तनात्।
कथं हि मानसं दुःखं विप्रयुज्यन्ति पण्डिताः॥ 11-3-2(64864)
विदुर उवाच। 11-3-3x(5317)
वतोयतो मनो दुःखात्सुखाद्र विप्रमुच्यते।
तवत्तसः शगं लब्ध्वा सुगतिं विन्दते बुधः॥ 11-3-3(64865)
अशाधतमिदं सर्वं चिन्त्यमानं नरर्षभ।
कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते॥ 11-3-4(64866)
[यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः।
सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः॥ 11-3-5(64867)
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः।
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः॥ 11-3-6(64868)
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः॥] 11-3-7(64869)
गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः।
कालेन विनियुज्यन्ते सत्वमेकं तु शोभनम्॥ 11-3-8(64870)
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः।
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम्॥ 11-3-9(64871)
वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम्।
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा॥ 11-3-10(64872)
कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत।
ततो वहति तं भारमवशः स्ववशोऽपि वा॥ 11-3-11(64873)
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते।
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा॥ 11-3-12(64874)
हीनं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा।
आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा॥ 11-3-13(64875)
अवतार्यन्तमापाङ्कादुद्धृतं चापि भारत।
अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम्॥ 11-3-14(64876)
गर्भस्थो वा प्रसूतो वाऽप्यथवा दशरात्रिकः।
अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा॥ 11-3-15(64877)
संवत्सरगतो वापि द्विसंवत्सर एव वा।
यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते॥ 11-3-16(64878)
प्राक्कर्मभिस्तु भूतानि भवन्ति नभवन्ति च।
एवं संबर्धिते लोके किमर्थमनुतप्यसे॥ 11-3-17(64879)
यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन्।
उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप॥ 11-3-18(64880)
एवं संसारगहने उन्मज्जननिमज्जने।
कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः॥ 11-3-19(64881)
ये तु प्राज्ञाः स्थिता मध्ये संसारान्तगतैषिणः।
समागमज्ञा भूतानां ते यान्ति परमां गतिम्॥ ॥ 11-3-20(64882)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-3-1 सुभाषितैरिति झ.पाठः॥ 11-3-5 पितृवनं मृत्युम्॥ 11-3-8 सल्वमेकं तु शास्वतमिति झ.पाठः। तत्र सत्वं लिङ्गशरीरम्। शाश्वतं मोक्षपर्यन्तं स्थायित्वात् इत्यर्थः॥ 11-3-13 अवरोप्यन्तमितिपाठे अवरोप्यमाणम्॥ 11-3-14 आपाकात् कुलालकृतात् पात्रपाककूटात्। अथवा परिभृज्जन्तमिति झ.पाठः॥ 11-3-19 एवं संसारगहनादुन्मज्जननिमज्जनात् इति क.छ.ट.पाठः॥ 11-3-3 तृतीयोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|